Sunday, November 23, 2014

Sanskrit Test Lesson


Original text (with corrections) हास्यकणिका अध्यापिका व्याकरणं पाठयति। कर्ता कः, कर्म किम्, क्रिया का इति बोधयति। तत्परं सा कृष्णफलके इदं वाक्यं लिखति - ‘मण्टुः लड्डुकं खादितुं न इच्छति।’ अध्यापिका - सुरेश, त्वं वद। अस्मिन् वाक्ये मण्टुः कः। सुरेशः - मण्टुः मूर्खः। अध्यापिका - कथम्। सुरेशः - आर्ये, कः लड्डुकं खादितुं न इच्छेत्।
Version without sandhis
हास्य-कणिका अध्यापिका व्याकरणम् पाठयति । कर्ता कः, कर्म किम्, क्रिया का इति बोधयति। तत्परम् सा कृष्ण-फलके इदम् वाक्यम् लिखति - ‘मण्टुः लड्डुकम् खादितुम् न इच्छति।’ अध्यापिका - सुरेश, त्वम् वद। अस्मिन् वाक्ये मण्टुः कः । सुरेशः - मण्टुः मूर्खः। अध्यापिका - कथम्। सुरेशः - आर्ये, कः लड्डुकम् खादितुम् न इच्छेत्।
Inter linear, literal translation हास्य-कणिका laughter-particle अध्यापिका teacher व्याकरणम् grammar पाठयति teaches। कर्ता subject कः who, कर्म object किम् what, क्रिया verb का who इति so बोधयति explains। तत्परम् thereafter सा she कृष्ण-फलके on blackboard इदम् this वाक्यम् sentence लिखति writes - ‘मण्टुः Mantu लड्डुकम् sweetmeat खादितुम् to eat न no इच्छति desires।’ अध्यापिका teacher - सुरेश Suresh, त्वम् you वद speak। अस्मिन् in this वाक्ये in sentence मण्टुः Mantu कः who। सुरेशः Suresh - मण्टुः Mantu मूर्खः fool। अध्यापिका teacher - कथम् how। सुरेशः Suresh - आर्ये madam, कः who लड्डुकम् sweetmeat खादितुम् to eat न no इच्छेत् desires।
Natural translation Joke Teacher is teaching grammar. She explains what is subject, what is object, what is verb. Then she writes this sentence on the blackboard: Mantu does not want to eat sweetmeat. Teacher: Suresh, you answer. What is Mantu in this sentence? Suresh: Mantu is a fool. Teacher: How? Suresh: Who does not want to eat sweetmeat?

No comments:

Post a Comment